Ckalari is my friend

Sunday 26 May 2013

संस्कृतग्रामस्य परमार्थमन्विष्य ..

संस्कृतग्रामस्य परमार्थमन्विष्य  अस्माभिः मत्तूर्ग्रामं प्रति  एका पठनयात्रा आयोजिता। तदधिकृत्य कैरल्यां लेखनमेकं प्रकाशितं मातृभूमिदिनपत्रिकायाम्। पश्यन्तु- 
http://digitalpaper.mathrubhumi.com/118735/Weekend/26-May-2013#page/3/1


Thursday 6 December 2012

साहसमनुचितम्

धृत्वा कवचमसौ दृढरूपं
कृत्वा गात्रमनारतमस्मिन्
पदपदमवधानेन सलीलं
गच्छति मन्दं कच्छपवीरः॥

पादैर्युक्तः प्रस्तर इव भुवि
याति विचित्रशरीरः कथमपि
शशककथायां जेता कस्य च
हृदयं सपदि ग्रहीष्यति नैषः॥

पश्येत् कोपि सकौतुकमेनं
पृच्छेत् किं भोः गच्छति मन्दं
साहसमनुचितमित्येवं ननु
वदेद् हसित्वा गुरुभूतोयम्।